Loading data... On slow networks this could take a few minutes.
100%

विरलात पच्छविरनुष्णवपुः
परितो विपाण्डु दधदभ्रशिरः ।
अभवद्गतः परिणतिं शिथिलः
परमन्दसूर्यनयनो दिवसः ॥

मल्लिनाथः विरलेति ॥ परिणतिं परिवृत्तिम् , अन्यत्र जरावस्थां च गतः अत एव विरला अल्पा आतपस्य छविर्यस्य सः, अन्यत्र क्षीणप्रभः । अनुष्णवपुः, अन्यत्र श्लेष्मोदयादीषदुष्णदेहः । `अलवणा यवागूः` इतिवदल्पार्थे नञ् प्रयोगः । परितो विपाण्डु एकत्र शुभ्राभ्रपटलच्छन्नत्वादपरत्र पलितैश्च पाण्डुरमभ्रमाकाशमेव शिरो दधदुद्वहत्परिमन्दं प्रशान्तम् , अर्थग्रहणासमर्थं च सूर्य एव नयनं यस्य स दिवसः शिथिलः शिथिलवृत्तिः, शिथिलाङ्गश्चाभवत् । अत्राभ्रशिर इत्याद्यवयवरूपणाद्दिवस एव स्थविर इत्यवयविरूपकसिद्धेस्तदरूपणादेकदेशवृत्तिरूपकं श्लेषानुप्राणितम्
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
वि ला च्छ वि नु ष्ण पुः
रि तो वि पा ण्डु भ्र शि रः
द्ग तः रि तिं शि थि लः
न्द सू र्य नो दि सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.