अविभाव्यतारकमदृष्टहिम-
द्युतिबिम्बमस्तमितभानु नभः ।
अवसन्नतापमतमिस्रमभा-
दपदोषतैव विगुणस्य गुणः ॥

मल्लिनाथः अविभाव्येति ॥ अविभाव्यतारकमलक्ष्यनक्षत्रम् । अदृष्टं हिमद्युतिरिन्दोबिम्बं यस्मिंस्तत् । अद्याप्यनुदितचन्द्रतारकमित्यर्थः । अस्तमित्यदर्शनेऽव्ययम् । अस्तमितोऽस्तं गतो भानुर्यस्मिंस्तत् । एतावता निर्गुणत्वमुक्तम् । अथ निर्दोषत्वमाह-अवसन्नतापमर्कास्तमयात्प्रशान्तसंतापम् । अतमिस्रमनुदितान्धकारं नभोऽन्तरिक्षमभानाति स्म । भातेर्लङ् । ननु निर्गुणस्य का शोभेति न वाच्यं, निर्दोषताया अपि गुणत्वादित्यर्थान्तरन्यासेनाह-विगुणस्य गुणहीनस्यापदोषता निर्दोषत्वमेव गुणः । अतो गुणवत्वाच्छोभा युक्तेति कारणेन कार्यसमर्थनरूयोऽर्थान्तरन्यासः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
वि भा व्य ता दृ ष्ट हि
द्यु ति बि म्ब स्त मि भा नु भः
न्न ता मि स्र भा
दो तै वि गु स्य गु णः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.