अभितापसंपदमथोष्णरुचि-
र्निजतेसामसहमान इव ।
पयसि प्रपित्सुरपराम्बुनिधे-
रधिरोढुमस्तगिरिमभ्यपतत् ॥

मल्लिनाथः अभितापेति ॥ अथ मिमङ्खानन्तरमुष्णरुचिः सूर्यो निजतेजसामभितापसं. पदं संतापातिरेकमसहमान इवापराम्बुनिधेः पश्चिमाब्धेः पयसि प्रपित्सुः पतितुमिच्छुः । पततेः सन्नन्तादुप्रत्ययः `सनिमीमा-` (७४।५४) इत्यादिना इसादेशः `अत्र लोपोऽभ्यासस्य` (७४।५८) इत्यभ्यासलोपः । अस्तगिरिमस्ताद्रिम् । `अस्तस्तु चरमक्ष्माभृत्` इत्यमरः । अधिरोढुमभ्यपतदभ्यधावत् । अत्रासहमान इवेति कालप्राप्तस्य पयसि प्रपातस्य निजतेजोऽसहनहेतुकत्वमुत्प्रेक्ष्यते । अस्मिन्सर्गे प्रमिताक्षरावृत्तम् । `प्रमिताक्षरा सजससैरुदिता` इति लक्षणात्
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
भि ता सं थो ष्ण रु चि
र्नि ते सा मा
सि प्र पि त्सु रा म्बु नि धे
धि रो ढु स्त गि रि भ्य तत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.