अनुलेपनानि कुसुमान्यबलाः
कृतमन्यवः पतिषु धीपशिखाः ।
समयेन तेन चिरसुप्तमनो-
भवबोधनं सममबोधिषत ॥

मल्लिनाथः अनुलेपनानीति ॥ तेन समयेन प्रदोषकालेन कर्त्रा, अनुलेपनानि कुङ्कुमचन्दनादीनि कुसुमानि माल्यादीनि । तथा पतिषु कृतमन्यवः कृतकोपा अबलाः स्त्रियः तथा दीपशिखाः दीपज्वालाश्चेत्येतानि सर्वाणि चिरं सुप्तस्य पूर्वं स्तब्धस्य मनोभवस्य कामस्य बोधनमुद्दीपनं यस्मिन्कर्मणि तद्यथा तथा । तत्पूर्वकमित्यर्थः । इतरथा अनुलेपनादिबोधकस्य वैफल्यासंभवाञ्चेति भावः । समं सहैवावबोधिषत बोधितानि । बुध्यतेर्ण्यन्तात्कर्मणि लुङ् । अत्र गन्धमाल्यसंपादनस्त्रीमनःप्रसाददीपशिखोत्पादनानामबोधिषतेत्येकेन श्लिष्टशब्देनाभिधानात् श्लेषमूलाभेदाध्यवसायरूपातिशयोक्तिरेका । तथा सुप्तमनोभवबोधनमिति क्रियाविशेषणसामर्थ्यात् सममिति यौगपद्याभिधानाच्च मनोभवबोधनया कार्यकारणभूतयोस्तद्विपर्ययरूपापरा । तदुभयापेक्षया गन्धमाल्यादीनां प्रस्तुतानामवबोधनरूपैकधर्मसंबन्धातुल्ययोगिताभेदश्चेति संकरः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
नु ले ना नि कु सु मा न्य लाः
कृ न्य वः ति षु धी शि खाः
ये ते चि सु प्त नो
बो नं बो धि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.