भवनोदरेषु परिमन्दतया
शयितोऽलसः स्फटिकयष्टिरुचः ।
अवलम्ब्य जालकमुखोपगता-
नुदतिष्ठदिन्दुकिरणान्मदनः ॥

मल्लिनाथः भवनेति ॥ परिमन्दतया एकाकित्वादसमर्थतया भवनोदरेषु गृहाभ्यन्तरेषु शयितः सुप्तोऽत एवालसो मदनो जालकमुखोपगतान् गवाक्षविवरप्रविष्टान् अत एव स्फटिकयष्टीनां रुगिव रुक् शोभा येषां तान् स्फटिकदण्डसंनिभानिन्दुकिरणानवलम्ब्यावष्टभ्योदतिष्ठदुत्थितः । अत्रोद्बोधोत्थानयोरभेदविवक्षया `उदो. ऽनूर्ध्वकर्मणि` (अष्टाध्यायी १.३.२४ ) इति परस्मैपदसिद्धिः । एतत्पदे चाभेदाध्यवसायमूलातिशयोक्त्या स्फटिकयष्टिरुच इत्युपमया च अवलम्ब्येत्यत्रावलम्ब्येवेत्युत्थानस्यावलम्बनहेतुकत्वोत्प्रेक्षा प्रत्याय्यत इत्येतासां संकरः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
नो रे षु रि न्द या
यि तो ऽल सः स्फ टि ष्टि रु चः
म्ब्य जा मु खो ता
नु ति ष्ठ दि न्दु कि णा न्म नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.