स्थगिताम्बरक्षितितले परित-
स्तिमिरे जनस्य दृशमन्धयति ।
दधिरे रसाञ्जनमपूर्वतः
प्रियवेश्मवर्त्म सुदृशो ददृशुः ॥

मल्लिनाथः स्थगितेति ॥ स्थगिते तिरोहिते अम्बरक्षितितले येन तसिंस्तिमिरे परितो जनस्य दृशमन्धयति अन्धां कुर्वति सति सुदृशः स्त्रियोऽपूर्व नूतनं रसाञ्जनं रसं रागमेवाञ्जनं, सिद्धाञ्जनं च दधिरे दधुः । अतो हेतोः प्रियवेश्मवर्त्म ददृशुः । अत्र रसाञ्जनवाक्यार्थेन प्रियवेश्मदर्शनसमर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः । तेन रसः सिद्धाञ्जनमिवेत्युपमाध्वननादलंकारेणालंकारध्वनिः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
स्थ गि ता म्ब क्षि ति ले रि
स्ति मि रे स्य दृ न्ध ति
धि रे सा ञ्ज पू र्व तः
प्रि वे श्म र्त्म सु दृ शो दृ शुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.