अभितिग्मरश्मि चिरमविरमा-
दवधानखिन्नमनिमेषतया ।
विगलन्नमधुव्रतकुलाश्रुज-
लं न्ममीलदब्जनयनं नलिनी ॥

मल्लिनाथः अभीति ॥ नलिनी अभितिग्मरश्मि सूर्याभिमुखं चिरमाविरमादस्तमयादनिमेषतया अपक्ष्मपाततया । दलसंकोच एवात्र निमेपः । अवधानेनाभिमुखावस्थाननिर्बन्धेन खिन्नमलसम् । अत एव विगलन्निःसरन्मधुव्रतकुलमेवाश्रुजलं यस्य तदव्जमेव नयनं न्यमिमीलत् मीलयति स्म । `भ्राजभास-` (७|४|३) इत्यादिना विकल्पादुपधाह्रस्वः । अत एव नाभ्यासदीर्घः । अनुरक्ता हि कान्ता कान्तमनिमेषं पश्यन्ती तदपाये सति निमीलिताक्षी स्यादिति भावः । अत्राप्यव्जनयनमित्याद्यवयवरूपणादवयविनोनलिनीतिग्मरश्म्योर्नायिकानायकत्वरूपकत्वसिद्धेरेकदेशविवर्ति रूपकम्
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११ १२
भि ति ग्म श्मि चि वि मा
धा खि न्न नि मे या
वि न्न धु व्र कु ला श्रु
लं न्म मी ब्ज नं लि नी
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.