नवकुङ्कुमारुणपयोधरया
स्वकरावसक्तरुचिराम्बरया ।
अतिसक्तिमेत्य वरुणस्य दिशा
भृशमन्वरज्यदतुषारकरः ॥

मल्लिनाथः नवेति ॥ अतुषारकर उष्णांशुः नवकुङ्कुमवदरुणपयोधरया नवसंध्यारुणमेघया, अन्यत्र नवकुङ्कुमारुणकुचया स्वकरावसक्तरुचिराम्बरया स्वकिरणाकान्तरुचिराकाशया, अन्यत्र स्वहस्तलग्नचारुवस्त्रया वरुणस्य दिशा । पश्चिमदिशा सहेत्यर्थः । वरुणसंबन्धात्पराङ्गनात्वं च गम्यते । `वृद्धो यूना-` (अष्टाध्यायी १.२.६५ ) इति सूत्रादौ सहाप्रयोगात्सहार्थानामप्रयोगेऽपि `सहयुक्तेऽप्रधाने` (अष्टाध्यायी २.३.१९ ) इति सहार्थे तृतीया । अतिसक्तिमतिसंनिकर्षं, अत्यासक्तिं च एत्य प्राप्य भृशमन्वरज्यत्, लोहितो रक्तवांश्चाभवत् । रञ्जेर्दैवादिकात्कर्तरि लङ् । `कुषिरजोः प्राचां श्यन् परस्मैपदं च` (अष्टाध्यायी ३.१.९० ) इति कर्मकर्तरि वा । अत्र वारुणीदिनकरादिविशेषणमहिम्नैव तयोर्जारभावप्रतीतेः समासोक्तिरलंकारः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
कु ङ्कु मा रु यो या
स्व रा क्त रु चि रा म्ब या
ति क्ति मे त्य रु स्य दि शा
भृ न्व ज्य तु षा रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.