अनुरागवन्तमपि लोचनयो-
र्दधतं वपुः सुखमतापकरम् ।
निरकासयद्रविमपेतवसुं
वियदालयादपरदिग्गणिका ॥

मल्लिनाथः अनुरागवन्तमिति ॥ अपरदिक् पश्चिमा सैव गणिका वेश्या अनुरागो लौहित्यमभिलाषश्च तद्वन्तमपि लोचनयोः सुखयतीति सुखं सुखकर शान्तत्वादाभिरूप्याच्च दर्शनीयं वपुर्दधतमपीति अतापकरमनौष्ण्यादशठत्वाच्चासंतापकारिणं सुखस्पर्शं वा तथाप्यपेतवसुं नीरश्मिं निर्धनं च । `देवभेदेऽनले रश्मौ वसू रत्ने धने वसु` इत्यमरः । रविः सूर्यो विटश्च गम्यते । तं वियदाकाशमेवालयो गृहं तस्मान्निरकासयन्निष्कासितवती । धनपरा हि वेश्या निर्गुणमपि धनिकमासर्वस्वहरणादत्यनुरक्तवदनुवर्तन्ते, गुणवन्तमपि हृतसर्वस्वं निर्वासयन्ति सद्य एवेति भावः । अस्तं गतोऽर्क इति श्लोकार्थः । अत्र वियदालयादपरदिग्गणिकेत्येकदेशरूपणाद्वेर्विटत्वरूपणावगमादेकदेशवर्ति रूपकं, श्लेषोऽपि तदुत्थापितत्वादनुराग एवानुरागो वसव एव च वसूनीति रूपकपर्यवसित एवेत्यङ्गम्
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
नु रा न्त पि लो यो
र्द तं पुः सु ता रम्
नि का द्र वि पे सुं
वि दा या दि ग्ग णि का
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.