Loading data... On slow networks this could take a few minutes.
100%

उदमज्जि कैटभजितः शयना-
दपनिद्रपाण्डुरसरोजरुचा ।
प्रथमप्रबुद्धनदराजसुता-
वदनेन्दुनेव तुहिनद्युतिना ॥

मल्लिनाथः उदमज्जीति ॥ अपनिद्रपाण्डुरसरोजरुचा विकसितसितपुण्डरीकश्रिया तुहिनद्युतिना चन्द्रेण प्रथमं हरेः पूर्वमेव प्रबुद्धायाः । अन्यथा तन्मुखं न दृश्यतेति भावः । नदराजसुतायाः सिन्धुकन्यायाः श्रियो वदनेन्दुनेवेत्युत्प्रेक्षा । कैटभजितो हरेः शयनात् । समुद्रादित्यर्थः । उक्तोत्प्रेक्षासंभावनार्थमित्थं निर्देशः । उदमजि उन्मग्नम् । उत्थितमित्यर्थः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
ज्जि कै जि तः ना
नि द्र पा ण्डु रो रु चा
प्र प्र बु द्ध रा सु ता
ने न्दु ने तु हि द्यु ति ना
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.