अविभावितेषुविषयः प्रथमं
मदनोऽपि नूनमभवत्तमसा ।
उदिते दिशः प्रकटयत्यमुना
यदघर्मधाम्नि धनुराचकृषे ॥

मल्लिनाथः अविभावितेष्विति ॥ मदनोऽपि प्रथमं चन्द्रोदयात्प्राक् तमसा अविभावितोऽलक्षितः इषुविषयो बाणलक्ष्यं येन सोऽभवत् । नूनमित्युप्रेक्षा । यद्यस्मादघर्मधाम्नि शीतकरे उदिते दिशः प्रकटयति सति अमुना मदनेन धनुराचकृषे आकृष्टम् । चन्द्र एव महानुद्दीपको मदनस्याभूदिति भावः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
वि भा वि ते षु वि यः प्र मं
नो ऽपि नू त्त सा
दि ते दि शः प्र त्य मु ना
र्म धा म्नि नु रा कृ षे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.