Loading data... On slow networks this could take a few minutes.
100%

वसुधान्तनिःसृतमिवाहिपतेः
पटलं फणामणिसहस्ररुचाम् ।
स्फुरदंशुजालमथ शीतरुचः
ककुभं समस्कुरुत माधवनीम् ॥

मल्लिनाथः वसुधेति ॥ अथ मनःप्रसादानन्तरं वसुधान्तेन भूप्रान्तेन निःसृतं बहिर्निर्गतमहिपतेः शेषस्य फणामणिसहस्राणां रुचां भासां पटलं स्तोम इवेत्युत्प्रेक्षा । शीतरुचश्चन्द्रस्य संबन्धि स्फुरदुल्लसदंशुजालं मघोन इमां माघवनी माहेन्द्रीम् । `मघवा बहुलम्` (अष्टाध्यायी १.४.१२८ ) इति विकल्पान्न आदेशः । ककुभं दिशं समस्कुरुताभूषयत । प्राच्यां दिशि चन्द्रकिरणजालमलक्ष्यतेत्यर्थः । `संपर्युपेभ्यः करोतौ भूषणे` इति संपूर्वस्य सुडागमः `अडभ्यासव्यवायेऽपि` (वा०) इति नियमात्
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
सु धा न्त निः सृ मि वा हि तेः
लं णा णि स्र रु चाम्
स्फु दं शु जा शी रु चः
कु भं स्कु रु मा नीम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.