Loading data... On slow networks this could take a few minutes.
100%

ददृशेऽपि भास्कररुचाह्नि न यः
स तमीं तमोबिरभिगम्य तताम् ।
द्युतिमग्रहीद्ग्रहगणो लघवः
प्रकटीभवन्ति मलिनाश्रयतः ॥

मल्लिनाथः ददृश इति ॥ यो ग्रहगणोऽहनि सवितुस्त्विषा न ददृशे नेक्षितः स ग्रहगणस्तमोभिस्ततां व्याप्तां ताम्यन्त्यस्यामिति तमीं रात्रिम् । `रजनी यामिनी तमी` इत्यमरः । अभिगम्य प्राप्य द्युतिमग्रहीत् । ग्रहेर्लुङि `ग्रहोऽलिटि-` (अष्टाध्यायी ७.२.३७ ) इति इटो दीर्घत्वेऽपि स्थानिवत्त्वेनेट्त्वात्सिचो लोपे सवर्णदीर्घः । तथा हिलघवोऽल्पाः । `त्रिविष्टेऽल्पे लघुः` इत्यमरः । मलिनाश्रयतो निकृष्टाश्रयणात् प्रकटीभवन्ति । अर्थान्तरन्यासः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
दृ शे ऽपि भा स्क रु चा ह्नि यः
मीं मो बि भि म्य ताम्
द्यु ति ग्र ही द्ग्र णो वः
प्र टी न्ति लि ना श्र तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.