Loading data... On slow networks this could take a few minutes.
100%

रुचिधाम्नि भर्तरि भृशं विमलाः
परलोकमभ्युपगते विवशुः ।
ज्वलनं त्विषः कथमितरथा
सुलभोऽन्यजन्मनि स एव पतिः ॥

मल्लिनाथः रुचीति ॥ रुचिधाम्नि तेजोनिधौ सूर्ये भर्तरि पत्यौ परलोकं देशान्तरमभ्युपगते, मृते च सति विमलाः शुद्धास्त्विषो ज्वलनं विविशुः । `अग्निं वावादित्यः सायं प्रविशति` इति श्रुतेरिति भावः । अन्यत्र `मृते या म्रियते पत्यौ सा स्त्री ज्ञेया पतिव्रता` इति स्मरणादिति भावः । अग्निप्रवेशफलमाह-इतरथा ज्वलनप्रवेशे अन्यजन्मनि जन्मान्तरे स एव स सूर्य एव पतिः, अन्यत्र तु योऽस्मिञ्जन्मनि पतिः स एव कथं सुलभः । न कथंचिदित्यर्थः । `उद्यन्तं वावादित्यमग्निरनुसमारोहति` इति श्रुतेः । तेनैव सह मोदत इति स्मरणादिति भावः । अतोऽग्निप्रवेशो युक्त इति समर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
रु चि धा म्नि र्त रि भृ शं वि लाः
लो भ्यु ते वि शुः
ज्व नं त्वि षः मि था
सु भो ऽन्य न्म नि तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.