Loading data... On slow networks this could take a few minutes.
100%

विहिताञ्जलिर्जनतया दधती
विकसत्कुसुम्भकुसुमारुणताम् ।
चिरमुज्झितापि तनुरौज्झदसौ
न पितृप्रसूः प्रकृतिमात्मभुवः ॥

मल्लिनाथः विहितेति ॥ जनतया जनसमूहेन । `ग्रामजन-` (अष्टाध्यायी ४.२.४३ ) इत्यादिना समूहार्थे तल् प्रत्ययः । विहिताञ्जलिः । कृतप्रणामेत्यर्थः । विकसत्कुसुम्भकुसुमवदरुणतां दधती राजसत्वादिति भावः । तदुक्तं `सर्गाय रक्तं रजसोपबृंहितम्` इति । प्रसूत इति प्रसूर्माता । `जनयित्री प्रसूर्माता` इत्यमरः । पितॄणां प्रसूः पितृप्रसूः असावियं संध्यारूपिणी आत्मभुवो ब्रह्मणस्तनुर्मूर्तिश्विरमुज्झिता त्यक्तापि प्रकृतिं स्वभावम् । जगद्वन्द्यत्वादिनिजधर्ममित्यर्थः । नौज्झत् न विससर्ज । `उज्झ विसर्गे` लङ् `आडजादीनाम्` (अष्टाध्यायी ६.४.७२ ) इत्याडागमः `आटश्च` (अष्टाध्यायी ६.१.९० ) इति वृद्धिः । भूतपूर्वोऽपि महाजनपरिग्रहः फलतीति भावः। `पितामहः पितृन्सृष्ट्वा मूर्ति तामुत्ससर्ज ह । सा प्रातः सायमागत्य संध्यारूपेण पूज्यते ॥` इत्यादि भविष्यपुराणमत्र प्रमाणम् । अत्र तनुत्यागरूपकारणसद्भावेऽपि प्रकृति। त्यागरूपकार्यानुदयाद्विशेषोक्तिरलंकारः । `तत्सामग्र्यामनुत्पत्तिर्विशेषोक्तिर्निगद्यते` इति लक्षणात्
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
वि हि ता ञ्ज लि र्ज या ती
वि त्कु सु म्भ कु सु मा रु ताम्
चि मु ज्झि ता पि नु रौ ज्झ सौ
पि तृ प्र सूः प्र कृ ति मा त्म भु वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.