ककुभां मुखानि सहसोज्ज्वलय-
न्दधदाकुलत्वमधिकं रतये ।
अदिदीपदिन्दुरपरो दहनः
कुसुमेषुमत्रिनयनप्रभवः ॥

मल्लिनाथः ककुभामिति ॥ ककुभां दिशां मुखानि सहसा झटित्युज्वलयन्नुद्भासयन् रतये सुरताय अधिकमाकुलत्वमौत्सुक्यं दधत् । यूनामिति शेषः । अन्यत्र रतये कामदेव्यै आकुलत्वं भयविह्वलत्वं दधत् । अत्रेरत्रिमुनेर्नयनप्रभवः । `अत्रिनेत्रसमुद्भवः` इति पुराणात् । त्रिनयनप्रभवो न भवतीत्यत्रिनयनप्रभवः । अपरस्त्रिनयनप्रभवादन्यो दहनोऽग्निरिन्दुः । कुसुमेधू काममदिदीपद्दीपयति स्म । दीप्यते? चङि `भ्राज-` (अष्टाध्यायी ७.४.३ ) इत्यादिना विकल्पानोपधाहस्वः । अत्र प्रकृते कुसुमेषोर्दीपनं नाम प्रवर्धनं तस्य तत्र प्रतीयमानेन प्रज्वलनेनाभेदाध्यवसायात्तन्निमित्तमिन्दोर्दिङ्मुखोद्भासनादिधर्मसंबन्धादपरोऽयं दहन इत्यपरशब्दप्रयोगसामर्थ्या. द्दहनत्वोत्प्रेक्षा, न रूपकमिति रहस्यम् । चन्द्रोदयात्कामो ववृधे इति तात्पर्यम्
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
कु भां मु खा नि सो ज्ज्व
न्द दा कु त्व धि कं ये
दि दी दि न्दु रो नः
कु सु मे षु त्रि प्र वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.