१०.७
स्वदनेन सुतनोरवि-
चारादोष्ठतः समचरिष्ट रसोऽत्र ।
अन्यमन्यदिव यन्मनधु
यूनः स्वादमिष्टमतनिष्ट तदेव ॥
चारादोष्ठतः समचरिष्ट रसोऽत्र ।
अन्यमन्यदिव यन्मनधु
यूनः स्वादमिष्टमतनिष्ट तदेव ॥
१०.८
बिभ्रतौ मधुरतामति-
मात्रं रागिभिर्युगपदेव पपाते ।
आननैर्मधुरसो विक-
सदभिर्नासिकाभिरसितोत्पलगन्धः ॥
मात्रं रागिभिर्युगपदेव पपाते ।
आननैर्मधुरसो विक-
सदभिर्नासिकाभिरसितोत्पलगन्धः ॥
१०.१५
सन्तमेव चिरप्रकृतत्वा-
दप्रकाशितमद्द्युतङ्गे ।
विभ्रमं मधुमदः प्रमदानां
धातुलीनमुपसर्ग इवार्थम् ॥
दप्रकाशितमद्द्युतङ्गे ।
विभ्रमं मधुमदः प्रमदानां
धातुलीनमुपसर्ग इवार्थम् ॥
१०.२२
ह्रीविमोहमहरद्दयिताना-
मन्तिकं रतिसुखाय निनाय ।
सप्रसादमिव सेवितमासी-
त्सद्य एव फलदं मधु तासाम् ॥
मन्तिकं रतिसुखाय निनाय ।
सप्रसादमिव सेवितमासी-
त्सद्य एव फलदं मधु तासाम् ॥
॥ इति दशमः सर्गः (सुरतवर्णनम्) ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.