हावकारि हसितं वच-
नानां खौशलं दृशि विकारविशेषाः ।
चकिरे भृशमृजोरपि
वध्वाः कामिनेव तरुणेन मदेन ॥

मल्लिनाथः हावेति ॥ तरुणेनोत्कटेन यूना च मदेन कामिनेव ऋजोर्मुग्धाया अपि वध्वाः । किमुत प्रौढानामिति भावः । हावहारि विलासमनोहरं हसितं हासः वचनानां कौशलं प्रागल्भ्यं दृशि विकारविशेषाः विलासविशेषाश्चक्रिरे कृतानि । पुंसेव मौग्ध्यं त्याजयित्वा प्रौढ्यं नीतेत्यर्थः । अत्र हसितकौशलविकाराणां यौगपद्योक्त्या समुच्चयः । `गुणक्रियायौगपद्यं समुच्चयः` इति लक्षणम् । तस्यौपम्ययोगेन संकरः । तेन ऋजोरपीत्यत्र किमुत प्रौढानामित्यर्थापत्तिर्व्यज्यते
छन्दः आर्यागीतिः []
छन्दोविश्लेषणम्
१० ११ १२ १३
हा का रि सि तं
ना नां खौ लं दृ शि वि का वि शे षाः
कि रे भृ मृ जो पि
ध्वाः का मि ने रु णे दे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.