उत्तरीयविनयात्त्रप-
माणा रुन्धती किल तदीक्षणमार्गम् ।
आचरिष्ट विकटेन
विवोढुर्वक्षसैव कुचमणडलमन्या ॥

मल्लिनाथः उत्तरीयेति ॥ अन्या स्त्री उत्तरीयविनयात् कुचांशुकाकर्षणात् । त्रपमाणा तदीक्षणमार्गं तस्य वोढुर्दृष्टिपथं रुन्धती किल आवृण्वतीव, न तु वस्तुत इति किलार्थः । विकटेन विशालेन । `विशङ्कटं विशालं स्यात्करालं विकटं तथा` इति वैजयन्ती । `संप्रोदश्च कटच्` (अष्टाध्यायी ५.२.२९ ) इति चकाराद्वेः कटच् प्रत्ययः । विवोढुः परिणेतुः वक्षसैव कुचमण्डलं आवरिष्ट आवृतवती कुचावरणव्याजेनालिङ्गितवती । वृञो लुङि तङ् इडागमः । अत्र कुचसंवरणेनालिङ्गनेच्छानिगूहनान्मीलनभेदः । एषा लज्जामन्मथमध्यस्था मध्यमा
छन्दः आर्यागीतिः []
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
त्त री वि या त्त्र
मा णा रु न्ध ती कि दी क्ष मा र्गम्
रि ष्ट वि टे वि
वो ढु र्व क्ष सै कु न्या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.