Loading data... On slow networks this could take a few minutes.
100%

आगतानगणितप्रतियाता-
न्वल्लभानभिसिसारयिषूणाम् ।
प्रापि चेतसि सविप्रतिसारे
सुभ्रुवामवसरः सरकेण ॥

मल्लिनाथः आगतानिति ॥ आगतान् स्वयंप्राप्तान् तथाप्यगणिताश्च ते प्रतियाताश्चेति । स्नातानुलिप्त इतिवत्पूर्वकाले समासः । तान्वल्लभानभिसिसारयिषूणां संप्रति चन्द्रोदये स्वयमेवाभिसारयितुमभिसर्तुमिच्छूनाम् । अभिसारयतेः स्वार्थण्यन्तात्सन्नन्तादुप्रत्ययः । सुभ्रुवां स्त्रीणां चेतसि सविप्रतिसारे कष्टमस्माभिरकार्यं कृतमिति पश्चात्तापयुक्ते सति । `पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि` इत्यमरः । सरकेण मधुना मधुपानेन वा । `सरकं शीधुपात्रे स्याच्छीधुपाने च शीधुनि` इति विश्वः । अवसरः प्रापि प्राप्तः । स्वयं गमनसौकर्याय मधुपानं चक्रुरित्यर्थः । अत्राभिसारणस्य पश्चात्तापकरणकस्य मदयोगात्सौकर्योक्तेः समाध्यलंकारः। `समाधिः सुकरं कार्यं कारणान्तरयोगतः` इति काव्यप्रकाशे
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
ता णि प्र ति या ता
न्व ल्ल भा भि सि सा यि षू णाम्
प्रा पि चे सि वि प्र ति सा रे
सु भ्रु वा रः के
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.