गण्डभित्तिषु पुरा सदृशीषु
व्याञ्जि नाञ्जितदृशां प्रतिमेन्दुः ।
पानपाटलितकान्तिषु पश्चा-
ल्लोध्रचूर्णतिलकाकृतिरासीत् ॥

मल्लिनाथः गण्डेति ॥ प्रतिमेन्दुः प्रतिबिम्बचन्द्रः सदृशीषु स्वसमानवर्णास्वञ्चितदृशां सुदृशां गण्डभित्तिषु पुरा सुरापानात्पूर्वं न व्याञ्जि नाभेदि । तदेकतापत्त्या तद्विविक्ततया न गृहीत इत्यर्थः । अत एव सामान्यालंकारः । `सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता` इति लक्षणात् । विपूर्वादलेः कर्मणि लुङ् `आडजादीनाम् (अष्टाध्यायी ६.४.७२ ) इत्याडागमः । पश्चात् पानानन्तरं पानेन पानमदेन पाटलिता पाटलीकृता कान्तिर्यासां तासु गण्डभित्तिषु लोध्रचूर्णस्य लोध्रपरागस्य तिलकश्चित्रकम् । `तमालपत्रतिलकचित्रकाणि विशेषकम् । द्वितीयं च तुरीयं च न स्त्रियाम्` इत्यमरः । तस्याकृतिरिवाकृतिर्यस्य स आसीत् । वैवर्ण्याद्विविक्त एवासीदित्यर्थः । तिलकाकृतिरिति निदर्शना पूर्वोक्तसामान्यसंसृष्टा
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
ण्ड भि त्ति षु पु रा दृ शी षु
व्या ञ्जि ना ञ्जि दृ शां प्र ति मे न्दुः
पा पा लि का न्ति षु श्चा
ल्लो ध्र चू र्ण ति का कृ ति रा सीत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.