Loading data... On slow networks this could take a few minutes.
100%

पीतशीतधुमधुरैर्मिधुनाना-
माननैः परिहृतं चषकान्तः ।
व्रीडया रुददिवालिविरावै-
र्नीलनीरजमगच्छदधस्तात् ॥

मल्लिनाथः पीतेति ॥ पीतशीधूनि पीतमद्यानि अत एव मधुराणि मनोज्ञानि तैमिथुनानां स्त्रीपुंसानामाननैः चषकान्तः पानपात्राभ्यन्तरे । `चषकोऽस्त्री पानपात्रम्` इत्यमरः । परिहृतं त्यक्तं नीलनीरजं वासनार्थे निक्षिप्तं नीलोत्पलं ब्रीडया परिहारलज्जया अलिविरावैः रुददिवाधस्तादगच्छत् । अत्र मद्यापगमनिमित्तस्य नीलनीरजाधोगमनस्य रोदनविशिष्टलज्जाहेतुकत्वोत्प्रेक्षा । सा चालिविरावैरिति व्यधिकरणकारिपरिणामोजीवितेति संकरः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११ १२
पी शी धु धु रै र्मि धु ना ना
मा नैः रि हृ तं का न्तः
व्री या रु दि वा लि वि रा वै
र्नी नी च्छ स्तात्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.