Loading data... On slow networks this could take a few minutes.
100%

न स्म माति वपुषः प्रमदाना-
मन्तरिष्टतमसङ्गमजन्मा ।
तद्बहुर्बहिरवाप्य विकासं
व्यानशे तनुरुहाण्यपि हर्षः ॥

मल्लिनाथः न स्मेति ॥ प्रमदानामिष्टतमसंगमेन जन्म यस्य सः । जन्माद्युत्तरपदत्वाद्व्यधिकरणबहुव्रीहिरिति वामनः । बहुर्विपुलः । `विपुलानेकयोर्बहुः` इति वैजयन्ती। हर्षो वपुषोऽन्तर्न माति स्म । अत्युद्वेकान्नान्तः संमित इत्युत्प्रेक्षा । कुतः । यद्यस्माद्बहिर्वपुषो बहिर्विकासं वृद्धिमवाप्य तनुरुहाणि रोमाण्यपि व्यानशे व्याप । कर्तरि लिट् । `अश्नोतेश्व` (अष्टाध्यायी ७.४.७२ ) इति नुडागमः । अत्र बहिर्विकासननिमित्तकान्तरमानोत्प्रेक्षा आनन्दरोमाञ्चयोः श्लेषमूलाभेदाध्यवसायातिशयोक्त्यनुप्राणितेति संकरः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
स्म मा ति पु षः प्र दा ना
न्त रि ष्ट ङ्ग न्मा
द्ब हु र्ब हि वा प्य वि का सं
व्या शे नु रु हा ण्य पि र्षः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.