Loading data... On slow networks this could take a few minutes.
100%

सोपचारमुपशान्तवि-
चारं सानुतर्षमनुतर्षपदेन ।
ते मुहूर्तमथ मूर्त-
मपीप्यन्प्रम मानमवधूय वधूः स्वाः ॥

मल्लिनाथः सोपचारमिति ॥ अथ पात्रीकरणानन्तरं ते युवानः सोपचारं सप्रार्थनमुपशान्तविचारं निवृत्तशङ्कम् । `विवादम्` इति पाठे मानमवधूयेति पुनरुक्तिः । चारं चारमित्यनुप्रासक्रमभङ्गश्च स्यात् । सानुतर्षं सतृष्णं च यथा तथा अनुतर्षत्यनेनेत्यनुतर्षो मद्यम् । `मद्येऽनुतर्षं तत्पाने पात्रे तृष्णाभिलाषयोः` इत्युभयत्रापि विश्वः । तस्य पदेन छलेन मूर्तं मूर्तिमत् स्वाः स्वीया वधूर्मुहूर्तं क्षणं मान कोपमवधूयापीप्यन् पाययन्ति स्म । पिबतेर्णौ चङि. `लोपः पिबतेरीच्चाभ्यासस्य (अष्टाध्यायी ७.४.४ ) इति धात्वाकारलोपः ईकारोऽभ्यासस्य । `न पादमि-` (१|३|८९) इत्यादिना निगरणार्थत्वात्परस्मैपदनिषेधेऽपि `णिचश्च` (१॥३७४) इत्यात्मनेपदविकल्पात्पाक्षिकं परस्मैपदम् । `गतिबुद्धि`(अष्टाध्यायी १.४.५२ ) इत्यादिना वधूरित्यणिकर्तुः कर्मत्वम् । अनुतर्षपदेनेत्यनुतर्षापह्नवेन मूर्तप्रेमत्वोत्प्रेक्षणात् व्यञ्जकाप्रयोगाच्च प्रतीयमाना सापह्नवोत्प्रेक्षा
छन्दः आर्यागीतिः []
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
सो चा मु शा न्त वि
चा रं सा नु र्ष नु र्ष दे
ते मु हू र्त मू र्त
पी प्य न्प्र मा धू धूः स्वाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.