लब्धसौरभगुणो मदिराणा-
मङ्गनास्यचषकस्य च गन्धः ।
मोदितालिरितरेतरयोगा-
दन्यतामभजतातिशयं नु ॥

मल्लिनाथः लब्धेति ॥ लब्धसौरभगुणो मेलनात्प्राप्तसौरभोत्कर्षः । अत एव मोदितालिः आनन्दितभृङ्गः मदिराणां मद्यानां अङ्गनास्यमेव चषकं तस्य च गन्धो गन्धगुणः इतरेतरस्य योगान्मिश्रणादन्यतामपूर्वतामतिशयं नु तत्रैवोत्कर्षं वाऽभजत् । यक्षकर्दमादौ घृताक्तकुङ्कुमादौ चोभयथा दर्शनादयं संशय इति भावः । अत एव संशयालंकारः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
ब्ध सौ गु णो दि रा णा
ङ्ग ना स्य स्य न्धः
मो दि ता लि रि रे यो गा
न्य ता ता ति यं नु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.