शहङ्गयान्ययुवतौ
वनिताभिः प्रत्यभेदि दयितः स्फुटमेव ।
न क्षमं भवति तत्ववि-
चारे मत्सरेण हतसंवृति चेतः ॥

मल्लिनाथः शङ्कयेति ॥ वनिताभिरन्ययुवतौ सपत्न्यां शङ्कया तत्सङ्गशङ्कामात्रेण दयितः स्फुटमेव निश्चितवदेव प्रत्यभेदि । सिद्धवत्कृत्वोद्घाटित इत्यर्थः । अनुचितोऽयमविमृश्य मिथ्याभियोग इति शङ्कां परिहरति-नेति । मत्सरेण वैरेण हता संवृतिर्गोप्यगोपनं यस्य तच्चेतस्तत्त्वविचारे भूतार्थचिन्तायां क्षमं सहिष्णु न भवति । मत्सरग्रस्तचेतसामेष स्वभाव इति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः
छन्दः आर्यागीतिः []
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
ङ्ग या न्य यु तौ
नि ता भिः प्र त्य भे दि यि तः स्फु मे
क्ष मं ति त्व वि
चा रे त्स रे सं वृ ति चे तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.