संप्रवेष्टुमिव योषित ईषुः
श्लिष्यतां हृदयमिष्टतमानाम् ।
आत्मनः सततमेव तदन्त-
र्वर्तिनो न खलु नूनमजानन् ॥

मल्लिनाथः &#३२; संप्रवेष्टुमिति ॥ योषितः श्लिष्यतामालिङ्गतामिष्टतमानां हृदयं संप्रवेष्टुमीषुरिच्छन्ति स्मेव इति गाढालिङ्गननिमित्ता क्रियास्वरूपोत्प्रेक्षा गुणस्वरूपोत्प्रेक्षा वा विवक्षाभेदात् । अत एवात्मनः स्वान् सततमेव तदन्तर्वर्तिनस्तेषामिष्टतमानां अन्तर्हृदयेष्वेव स्थितान्नाजानन्नूनम् । अन्यथा कथं पुनः प्रवेशेच्छेति भावः । इयमज्ञानोत्प्रेक्षा पूर्वोत्प्रेक्षासापेक्षेति सजातीयसंकरः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
सं प्र वे ष्टु मि यो षि षुः
श्लि ष्य तां हृ मि ष्ट मा नाम्
त्म नः मे न्त
र्व र्ति नो लु नू जा नन्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.