अप्रसन्नमपराद्धरि
पत्यौ कोपदीप्तमुररीकृतधैर्यम् ।
क्षालितं नु शमितं नु
वधूनां द्रवितं नु हृदयं मधुवारैः ॥

मल्लिनाथः अप्रसन्नमिति ॥ अपराद्धरि आगस्कारिणि । राधेस्तृच्प्रत्ययः । पत्यौ विषये अप्रसन्नं कलुषम् । क्षुभितमित्यर्थः । कोपदीप्तं कोपेन ज्वलितम् , उररीकृतधैर्यमङ्गीकृतकाठिन्यम् । `ऊरीकृतमुररीकृतम्` इत्यमरः । `ऊर्यादिच्विडाचश्च` (अष्टाध्यायी १.४.६१ ) इति गतित्वात् `कुगतिप्रादयः` (अष्टाध्यायी २.२.१८ ) इति समासः । वधूनां हृदयं मधुवारैर्मद्यपर्यायैः । `मधुवारा मधुक्रमाः` इत्यमरः । क्षालितं धौतं नु । शमितं निर्वापितं नु । गावितं गवीकृतं नु । अन्यथा कथं तादृगप्रसन्नतादीप्तताकठिनतानां हठान्निवृत्तिरिति भावः । अत्र क्षालितत्वादीनामेकत्राविरोधात्सादृश्याच्च न संशयालंकारः । सति सादृश्ये विरुद्धानेककोटिगोचरत्वात्तस्य, किंत्वप्रसन्नत्वादिनिरास निमित्तकं क्षालितत्वाद्युत्प्रेक्षात्रयं नुशब्दानुवृत्तेः तच्चाप्रसन्नत्वाद्युद्देशिनां क्षालितत्वाद्यनुदेशिभिर्यथासंख्येनान्वयमपेक्षत इति यथासंख्यालंकारेण संकीर्यते
छन्दः आर्यागीतिः []
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
प्र न्न रा द्ध रि
त्यौ को दी प्त मु री कृ धै र्यम्
क्षा लि तं नु मि तं नु
धू नां द्र वि तं नु हृ यं धु वा रैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.