छादितः कथमपि त्रपययान्तर्यः प्रियं प्रति चिराय रमण्याः । वारुणीमदविशङअगमथाविश्चक्षुषोऽभवदसाविव रागाः ॥

मल्लिनाथः छादित इति ॥ रमण्या यः प्रियं प्रति रागो विषयाभिलाषः चिराय त्रपया व्रीडयाऽन्तश्छादितः संवृत असावयमेव रागोऽथास्मिन्नवसरे वारुणीमदविशङ्कं मद्यमदेन निःशङ्कं चक्षुषो नेत्रादाविरभवदिव आविर्भूतः किम् । अत्र रतिरागमदरागयोरभिलाषपाटलिमरूपयोः श्लेषप्रतिभोत्थापिताभेदाध्यवसायमूलातिशयोक्तिमहिम्ना योऽन्तर्गतो रागः स एव चिरनिरुद्धः संप्रति मदोद्घाटितत्रपाकपाट्या चक्षुर्द्वारा बहिरुद्भिन्न इत्युत्प्रेक्षते । आविर्भुवोर्व्यवधानं कविस्वातन्त्र्यात्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.