Loading data... On slow networks this could take a few minutes.
100%

प्रातिभत्रिसरकेण गतानां
वक्रवाक्यरचनारमणीयः ।
गूढसूचितरहस्यसहासः
सुभ्रुवां प्रववृते परिहासः ॥

मल्लिनाथः प्रातिभमिति ॥ त्रयाणां सरकाणां समाहारस्त्रिसरकं त्रिवारमधुपानम् । "सरकं शीधुपात्रे स्याच्छीधुपाने च शीधुनि` इति विश्वः ।`तद्धितार्थ-` (अष्टाध्यायी २.१.५१ ) इत्यादिना समाहारे द्विगुः पात्रादित्वान्नपुंसकत्वम् । तेन त्रिसरकेण निपानं मदातिभूमिरिति पानप्रसिद्धिः । प्रतिभैव प्रातिभं प्रतिभाविशेषः । प्रज्ञादित्वात्स्वार्थेऽण्प्रत्ययः । यद्वा `ज्ञानबीजभूतः संस्कारविशेषः प्रतिभा` इति काव्यप्रकाशकारः। तत्र भवं प्रातिभं ज्ञानप्रभाविशेष एव । भवार्थेऽण्प्रत्ययः । तत्प्रातिभं गतानाम् । त्रिवारमधुपानोत्कटमदोद्बुद्धसंस्कारप्रभावितप्रगल्भमतीनामित्यर्थः । सुभ्रुवां स्त्रीणां वक्रवाक्यरचनारमणीयः प्रतिकूलवाक्यप्रयोगरम्यः। गूढानि पूर्वं लज्जया संवृतानि सूचितानि संप्रति मदेन प्रकाशितानि रहस्यानि ग्राम्यावयवचेष्टाप्रलपितानि यस्मिन् स गूढसूचितरहस्यः स चासौ सहासश्चेति विशेषणसमासः वैवक्षिकविशेषणविशेष्यभावात् । `हासो हास्यम्` इत्यमरः । परिहासो नर्मकेलिरुपहासक्रीडेति यावत् । `द्रवकेलिपरीहासाः` इत्यमरः । प्रववृते प्रवृत्तः । इतः परं मदः संचारी
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
प्रा ति त्रि के ता नां
क्र वा क्य ना णी यः
गू सू चि स्य हा सः
सु भ्रु वां प्र वृ ते रि हा सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.