कान्ताकान्तवदनप्रतिबिम्बे
भग्नबालसहकारसुगन्धौ ।
स्वादुनि प्रणदितालिनि शीते
निर्विवार मधुनीन्द्रियवर्गः ॥

मल्लिनाथः क्रान्तेति ॥ क्रान्तं संक्रान्तं कान्तवदनप्रतिबिम्बं यसिंस्तस्मिन् । नेत्रनिर्वृतिकर इत्यर्थः । भग्ना: क्षिप्ताः बालसहकाराश्चूतविशेषपल्लवाः । `आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः` इत्यमरः । तैः सुगन्धौ सुरभिणि । घ्राणतर्पण इत्यर्थः । `तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य` (७।१|७४) इति पुंवद्भावः । स्वादुनि मधुरे रसनाकर्षिणीत्यर्थः । प्रणदितालिनि गुञ्जन्मधुकरे । श्रुतिसुख इत्यर्थः । शीते । स्पर्शसुखे इत्यर्थः । एवं पञ्चविषयसमष्टौ मधुनि मद्ये इन्द्रियवर्गश्चक्षुरादिपञ्चकं निर्ववार निर्वृतमभूत् । अत्र रूपरसादिपदार्थानां मधुविशेषणभावेन निर्वृतिहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम्
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
का न्ता का न्त प्र ति बि म्बे
ग्न बा का सु न्धौ
स्वा दु नि प्र दि ता लि नि शी ते
नि र्वि वा धु नी न्द्रि र्गः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.