चारुता वपुरभूषयदासां
तामनूननवयौवनयोगः ।
तं पुनर्मकरकेतनलक्ष-
क्ष्मीस्तां मदो दयितसंगमभूषः ॥

मल्लिनाथः चारुतेति ॥ आसां योषितां वपुश्चारुता सौन्दर्यमभूषयत् । तां चारुतामनूननवयौवनयोगः संपूर्णयौवनसंपत्तिरभूषयत् । तं पुनर्नवयौवनयोगं तु मकरकेतनलक्ष्मीर्मदनसंपत्तिरभूषयत् । तां मकरकेतनलक्ष्मीं दयितसंगम एव भूषा यस्य स मदोऽभूषयत् । तां मदः तं च दयितसंगम इत्यर्थः । प्रक्रमानुसारात्तां मदस्तमपि वल्लभसङ्ग इति प्रयोक्तव्ये विशेषणत्वेन प्रयोगो महाकवीनामनु द्वेगात् । यथा भारवेः प्रयोगः `शुचि भूषयती`त्यादौ (किरातार्जुनीये २।३२) श्लोके `स नयाङ्कः स च सिद्धिभूषणः` इति वक्तव्ये `स नयापादितसिद्धिभूषणः` इति । अत्रोत्तरोत्तरस्य पूर्वपूर्वविशेषकत्वादेकावली । `यत्रोत्तरोत्तरेषां स्यात् पूर्वपूर्वं प्रति क्रमात् । विशेषकत्वकथनमसावेकावली मता ॥` इति लक्षणात्
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११ १२
चा रु ता पु भू दा सां
ता नू यौ यो गः
तं पु र्म के क्ष
क्ष्मी स्तां दो यि सं भू षः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.