अंशुकं हृतवता तनुबाहु-
स्वस्तिकापिहितमुग्धकुचाग्रा ।
भिन्नशङ्खवलयं परिणेत्रा
पर्यरम्भि रभसादचिरोढा ॥

मल्लिनाथः अंशुकमिति ॥ अंशुकमुत्तरीयं हृतवता परिणेत्रा भर्त्रा तन्वोः कृशयोः बाह्वोः स्वस्तिको बन्धविशेषः तेनापिहिते आच्छादिते मुग्धे सुन्दरे कुचाग्रे यस्याः सा तथोक्ता । अचिरोढा नवोढा । भिन्नानि शङ्खस्य वलयानि यस्मिन्कर्मणि तद्यथा तथा रभसाद्वेगात्पर्यरम्भि । गाढमाश्लिष्टेत्यर्थः । रभेर्ण्यन्तात्कर्मणि लुङ् । `रभेरशब्लिटोः` (अष्टाध्यायी ७.१.६३ ) इति नुमागमः । एषा तिरोहितमुग्धा
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
अं शु कं हृ ता नु बा हु
स्व स्ति का पि हि मु ग्ध कु चा ग्रा
भि न्न ङ्ख यं रि णे त्रा
र्य म्भि सा चि रो ढा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.