रूपमप्रतिविधानमनोज्ञं
प्रेम कार्यमनपेक्ष्य विकासि ।
चाटु चाकृतकसंभ्रममासां
कार्मणत्वमगमन्रमणेषु ॥

मल्लिनाथः &#३२; रूपमिति ॥ अप्रतिविधानमप्रतियत्नमेव मनोज्ञम् । स्वभावसुन्दरमित्यर्थः । रूपमाकृतिः । कार्यं प्रयोजनमनपेक्ष्य विकासि वर्धमानम् । अनौपाधिकमित्यर्थः । प्रेम अकृतकसंभ्रममकृत्रिमसंरम्भं चाटु प्रियवचनं चासां स्त्रीणां रमणेषु विषये कार्मणत्वं वशीकरणकर्मत्वम् । `वशक्रिया संवननं मूलकर्म तु कार्मणम्` इत्यमरः । तद्युक्तात्कर्मणोऽण् । अगमन् प्राप्तानि । गमेर्लुङ् च्लेरङादेशः । अत्र रूपादिष्वारोप्यमाणस्य कार्मणस्य प्रकृतोपयोगात्परिणामालंकारः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
रू प्र ति वि धा नो ज्ञं
प्रे का र्य पे क्ष्य वि का सि
चा टु चा कृ सं भ्र मा सां
का र्म त्व न्र णे षु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.