मा पुनस्तमभिसीसर-
मागस्कारिणं मदविमोहितचित्ता ।
योषिदित्यभिलाष न
हालां दुस्त्यजः खलु सुखादपि मानः ॥

मल्लिनाथः मा पुनरिति ॥ मदेन विमोहितचित्ता भ्रमितचित्ता सती । अहमिति शेषः । आगस्कारिणमपराधकृतम् । `अतः कृकमि-` (अष्टाध्यायी ८.३.४६ ) इत्यादिना विसर्जनीयस्य सत्वम् । तं पुनर्भूयो माभिसीसरं नाभिसारयाणि । सरतेः स्वार्थे `णौ चङ्युपधाया ह्रवः` (अष्टाध्यायी ७.४.१ ) `दीर्घो लघोः` (अष्टाध्यायी ७.४.९४ ) इत्यभ्यासस्य दीर्घः । इति । इत्यालोच्येत्यर्थः । गम्यमानार्थत्वादप्रयोगः अन्यथा पौनरुक्त्त्यमित्यालंकारिकाः । योषित् काचित्स्त्री हालां सुराम् । `सुरा हलिप्रिया हाला` इत्यमरः । नाभिललाप । तथा हि—सुखादपि मानो दुस्त्यजः खलु । अतोऽल्पकारणादधिकार्थहानिरिति नाशङ्कनीयमित्यर्थान्तरन्यासः
छन्दः आर्यागीतिः []
छन्दोविश्लेषणम्
१० ११ १२ १३
मा पु स्त भि सी
मा स्का रि णं वि मो हि चि त्ता
यो षि दि त्य भि ला
हा लां दु स्त्य जः लु सु खा पि मा नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.