Loading data... On slow networks this could take a few minutes.
100%

उद्धतैरिव परस्परसङ्गा-
दीरितान्युभयतः कुचकुम्भैः ।
योषितामतिमदेन जुघूर्णु-
र्विभ्रमातिशयपुंसि वपूंषि ॥

मल्लिनाथः उद्धतैरिति ॥ उद्धतैर्दृप्तैरिव कुचकुम्भैः परसरसङ्गादन्योन्यसंघर्षादुभयत ईरितान्याकृष्टानि तथा विभ्रमातिशयं विलासविशेषं पुष्णन्ति तानि । `नपुंसकस्य झलचः` (अष्टाध्यायी ७.१.७२ ) इति मुमागमः । योषितां वपूंषि । पूर्ववन्नुमागमः । `सान्तमहतः संयोगस्य` (अष्टाध्यायी ६.४.१० ) इति दीर्घ इति विशेषः । अतिमदेन जुघूर्णः भ्रेमुः । दृप्तसंघर्षस्तटस्थपीडाकरः । यथा वृषभकलहाद्वत्सपादभङ्ग इति भावः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
द्ध तै रि स्प ङ्गा
दी रि ता न्यु तः कु कु म्भैः
यो षि ता ति दे जु घू र्णु
र्वि भ्र मा ति पुं सि पूं षि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.