कापिशायनसुगन्धि विघूर्ण-
न्नुन्मदोऽधिशयितुं समशेत ।
फुल्लदृष्टि वदनं प्रमदाना-
मब्जचारु चषकं च षडङ्ध्रिः ॥

मल्लिनाथः कापिशायनेति ॥ उन्मद उद्रिक्तमदः अत एव विघूर्णन् भ्रमन् षडङ्घ्रि: षट्पदः कापिशायनेन सुगन्धि सुरभि । `कश्यं कल्यं तथा मद्यं मैरेयं कापिशायनम्` इति वैजयन्ती । फुल्लदृष्टि विकसितनेत्रं प्रमदानां वनितानां वदनं अधिवासनार्थेन अब्जेन चारु चषकं पानपात्रं च । `चषकोऽस्त्री पानपात्रम्` इत्यमरः । अधिशयितुमधिष्ठातुं समशेत । इदं भजामि इदं भजामि वेत्युभयलोभार्थं दोलायमानमानस आसीदित्यर्थः । अत्र प्रकृतयोरेव वदनचषकयोः षट्पदाभिलाषास्पदत्वरूपैकधर्मयोगादौपम्यस्य गम्यतायां तुल्ययोगिताभेदः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
का पि शा सु न्धि वि घू र्ण
न्नु न्म दो ऽधि यि तुं शे
फु ल्ल दृ ष्टि नं प्र दा ना
ब्ज चा रु कं ङ्ध्रिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.