Loading data... On slow networks this could take a few minutes.
100%

मद्यमन्दविगलत्त्रपमीष-
च्चक्षुरुन्मिषितपक्ष्म दधत्या ।
वीक्ष्यते स्म शनकैर्नववध्वा
कामिनोमुखमधोमुखयैव ॥

मल्लिनाथः मद्येति ॥ मद्येन मद्यपानेन मन्दमल्पं विगलन्ती त्रपा यस्य तत् । अत एवेषदुन्मिषितानि पक्ष्माणि लोमानि यस्य तच्चक्षुर्दधत्या नववध्वा नवोढया कामिनः प्रियस्य मुखमधोमुखयैव नमितवदनयैव । `स्वाङ्गाच्चोपसर्जनात्-` (अष्टाध्यायी ४.१.५४ ) इति विकल्पादनीकारः । शनकैरसंभ्रमेण वीक्ष्यते स्म । तिर्यगीक्षितमित्यर्थः । अत्रापि मदमानाभ्यां त्रपैव बलीयसीति मौग्ध्यातिशयोक्तिः । `समुद्यद्यौवना मुग्धा लज्जापिहितमन्मथा`
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
द्य न्द वि त्त्र मी
च्च क्षु रु न्मि षि क्ष्म त्या
वी क्ष्य ते स्म कै र्न ध्वा
का मि नो मु धो मु यै
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.