या कथञअचन सखीवचनेन प्रागभिप्रियतमं प्रजगल्भे । व्रीडाजाड्यमभजन्मधुपा सा स्वां मदात्प्रकृतिमेति हि सर्वः ॥

मल्लिनाथः येति ॥ या स्त्री कथंचन कृच्छ्रेण सखीवचनेन सखीप्रेरणया प्राक् मदात्पूर्वम् अभिप्रियतमं प्रियतमसमक्षम् । आभिमुख्येऽव्ययीभावः । प्रजगल्भे प्रगल्भते स्म । सा स्त्री मधु पिबतीति मधुपा । `आतोऽनुपसर्गे कः` (अष्टाध्यायी ३.२.३ ) व्रीडं जाड्यं&#३२; मौग्ध्यमभजत् । विहायागन्तुकं धर्मं स्वभावमभजन्मदादित्यर्थः । तथा हि—सर्वो जनो मदाद्धेतोः स्वां स्वकीयां प्रकृतिमेति स्वभावं गच्छति । स्वाभाविकधर्मप्रकाशनं मदधर्मः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.