Loading data... On slow networks this could take a few minutes.
100%

सावशेषपदमुक्तमु-
पेक्षा स्रस्तमाल्यवसनाभरणेषु ।
गन्तुमुत्थिमकारण-
तः स्म द्योतयन्ति मदविभ्रममासाम् ॥

मल्लिनाथः सावशेषमिति ॥ सावशेषाण्योक्तानि पदानि यस्मिंस्तदुक्तमुक्तिर्वाक्यं स्रस्तेषु माल्यवसनाभरणेषूपेक्षाऽनादरः अकारणतोऽकस्मादेव गन्तुमुत्थितमुत्थानं च आसां स्त्रीणां मदविभ्रमं मदविकारं द्योतयन्ति स्म । एतैरनुभावैरासां मदसंचारो ज्ञात इत्यर्थः । अत्रार्थोक्तादीनां खलेकपोतिकया मदद्योतने प्रवृत्तत्वात्कारणाख्यो द्वितीयसमुच्चयः । `खलेकपोतन्यायेन बहूनां कार्यसाधने । कारणानां समुद्योगः स द्वितीयः समुच्चयः ॥ इति लक्षणात्
छन्दः आर्यागीतिः []
छन्दोविश्लेषणम्
१० ११ १२ १३
सा शे मु क्त मु
पे क्षा स्र स्त मा ल्य ना णे षु
न्तु मु त्थि का
तः स्म द्यो न्ति वि भ्र मा साम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.