अर्पितं रसितवत्यपि नाम-
ग्राहमन्ययुवतेर्दयितेन ।
उज्झति स्म मदमप्यपिबन्ती
वीक्ष्य मद्यमितरा तु ममाद ॥

मल्लिनाथः अर्पितमिति ॥ दयितेनान्ययुवतेः सपत्न्या नामग्राहं नाम गृहीत्वा । `नान्या दिशिग्रहोः` (अष्टाध्यायी ३.४.५८ ) इति णमुल् प्रत्ययः । अर्पितं दत्तं मद्यं रसितवत्यास्वादितवत्यपि । रसतेरास्वादनार्थात् क्तवतौ `उगितश्च` (अष्टाध्यायी ४.१.६ ) इति ङीप् । काचिदिति शेषः । मदमुज्झति स्म, न ममादेत्यर्थः । इतरा तु सपत्नी तु मद्यमपिबन्त्यपि वीक्ष्य दृष्ट्वैव ममाद मत्ता। मनोनिर्वृतिरेव मदहेतुरिति भावः । अत्र पूर्वार्धे रसितवत्यपि न ममादेति विशेषोक्तिः । उत्तरार्धे त्वपिबन्त्यपि ममादेति विभावना । `कारणेन विना कार्यस्योत्पत्तिः स्याद्विभावना । तत्सामाग्र्यामनुत्पत्तिर्विशेषोक्तिर्निगद्यते ॥` तयोः संकरः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
र्पि तं सि त्य पि ना
ग्रा न्य यु ते र्द यि ते
ज्झ ति स्म प्य पि न्ती
वी क्ष्य द्य मि रा तु मा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.