क्षीबतामनुगतास्वनुवेलं
तासु रोषपरितोषवतीषु ।
अग्रहीन्न सशरं धनुरुज्झा-
मास नूज्झितनिषङ्गमनङ्गः ॥

मल्लिनाथः क्षीबतामिति ॥ क्षीबतां मत्तताम् । `मत्ते शौण्डोत्कटक्षीबाः` इत्यमरः । `क्षीबृ मदे` इत्यस्माद्धातोः `अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः` (अष्टाध्यायी ८.२.५५ ) इति निष्ठान्तो निपातितः । उपगतासु प्राप्तासु । अत एवानुवेलं प्रतिक्षणं रोषपरितोषवतीषु तासु स्त्रीषु विषये अनङ्गः सशरं धनुरग्रहीन्नु, उज्झितनिषङ्गं त्यक्ततूणीरं यथा तथोज्झामास नु तत्याज किम् । उज्झतेर्लिट् `इजादेव गुरुमतोऽनृच्छः` (अष्टाध्यायी ३.१.३६ ) इत्याम्प्रत्ययः । रुष्टासु धनुर्ग्रहणं परितुष्टासु त्यागश्च रोषपरितोषाभ्यामुत्प्रेक्ष्यते । अन्यथा रोषानन्तरं परितोषः परितोषानन्तरं रोषश्च न स्यादिति भावः । रोषपरितोषयोर्धनुर्ग्रहणाग्रहणाभ्यां यथासंख्येनान्वयाद्यथासंख्यालंकारभेदः । तेनोत्प्रेक्षयोरङ्गाङ्गिभावेन संकरः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
क्षी ता नु ता स्व नु वे लं
ता सु रो रि तो ती षु
ग्र ही न्न रं नु रु ज्झा
मा नू ज्झि नि ङ्ग ङ्गः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.