ह्रीविमोहमहरद्दयिताना-
मन्तिकं रतिसुखाय निनाय ।
सप्रसादमिव सेवितमासी-
त्सद्य एव फलदं मधु तासाम् ॥

मल्लिनाथः &#३२; ह्रीति ॥ सप्रसाद मनःप्रसादपूर्वकम् । ममेदं श्रेयस्करमिति भावनापूर्वकमित्यर्थः । अन्यथा फलोदय एव न स्यात् । `दैवज्ञे भिषजे गुरौ` इति वचनादिति भावः । सेवितमुपभुक्तमिति हेतोर्मधु तासां सद्य एव फलदमासीत् । कुतः । ह्रीविमोहं व्रीडाजाड्यमहरत् रतिसुखाय सुरतसुखाय दयितानामन्तिकं निनाय । अत्र ह्रीहरणान्तिकनयनवाक्याभ्यां फलदानवाक्यार्थसमर्थनादनेकवाक्यार्थहेतुकं काव्यलिङ्गमलंकारः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
ह्री वि मो द्द यि ता ना
न्ति कं ति सु खा नि ना
प्र सा मि से वि मा सी
त्स द्य दं धु ता साम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.