Loading data... On slow networks this could take a few minutes.
100%

सञ्जितानि सुरभीण्यथ यूना-
मुल्लसन्नयनवारिरुहाणि ।
आयुषः शुघटितानि सुरायाः
पात्रतां प्रियतमावदनानि ॥

मल्लिनाथः सजितानीति ॥ अथ पानगोष्ठीप्रस्तावानन्तरं सज्जितानि यावकक्षालनादिना संस्कृतानि सुरभीणि यथायोगं स्वभावसंस्काराभ्यां सुगन्धीनि नयनानि वारिरुहाणीव, अन्यत्र नयनानीव वारिरुहाणि वासनार्थं क्षिप्तानि तान्युल्लसन्ति येषु तानि तथोक्तानि सुघटितानि सुष्टु मुखैर्योजितानि शोभनसंस्थानवत्तया निर्मितानि वा प्रियतमावदनानि यूनां कामिनां सुरायाः पात्रतां पानभाजनतां ययुः । प्रियामुखसंपर्कजनितरसास्वादलोभात्तासां मुखसुरामेव पपुरिति भावः । अत्र वदनेष्वारोप्यमाणायाः पात्रतायास्तादात्म्येन तेषां पानसाधनतापादनेन कृतवद&#३२; नोपयोगात्परिणामालंकारः। `आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः` इति लक्षणात् । तेन श्लेषसंकीर्णेनोपमा व्यज्यते । अस्मिन् सर्गे स्वागता वृत्तम् । `स्वागतेति रनभा गुरुयुग्मम्
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
ञ्जि ता नि सु भी ण्य यू ना
मु ल्ल न्न वा रि रु हा णि
यु षः शु टि ता नि सु रा याः
पा त्र तां प्रि मा ना नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.