Loading data... On slow networks this could take a few minutes.
100%

पीडिते पुर उरः प्रतिषेधं
भर्तरि स्तनयुगेन युवत्याः ।
स्पष्टमेव दलतः प्रतिनार्य-
स्तन्मयत्वमभवद्धृदयस्य ॥

मल्लिनाथः पीडित इति ॥ युवत्या युवतेः स्तनयुगेन भर्तरि प्रतिनार्याः पुरोऽग्रे समक्षमेव उरःप्रतिपिष्य उरःप्रतिपेषम् । `परिक्लिश्यमाने च` (अष्टाध्यायी ३.४.५५ ) इति णमुल् `कृन्मेजन्तः` (अष्टाध्यायी १.९.३९ ) इत्यव्ययसंज्ञा । वक्षः प्रतिपीड्येत्यर्थः । पीडिते सति दलतः ईर्ष्यया दीर्यमाणस्य प्रतिनार्याः सपत्न्या हृदयस्य तन्मयत्वं भर्तृतादात्म्यं स्पष्टमभवदेव । अन्यथा कथमन्यपीडनादन्यदलनमिति भावः । अत एवेयमसंगत्यलंकारोपजीविनी तन्मयत्वोत्प्रेक्षेति संकरः। `कार्यकारणयोर्भिन्नदेशत्वे स्यादसंगतिः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
पी डि ते पु रः प्र ति षे धं
र्त रि स्त यु गे यु त्याः
स्प ष्ट मे तः प्र ति ना र्य
स्त न्म त्व द्धृ स्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.