Loading data... On slow networks this could take a few minutes.
100%

दत्तमिष्टतमया मधु
पत्युर्बाडमाप पिबतो रसवत्ताम् ।
यत्सुवर्णमुकुटांशु-
भिरासाच्चेतनाविरहितैरपि पतिम् ॥

मल्लिनाथः दत्तमिति ॥ इष्टतमया दत्तं मधु मद्यं कर्तृ पिबतः पत्युः रसवत्तां प्रेयसीकरस्पर्शादतिस्वादुतामाप । अतिशायने मतुप् । बाढं ध्रुवमित्युत्प्रेक्षा । कुतः । यद्यस्माच्चेतनाविरहितैरचेतनैः सुवर्णमुकुटांशुभिरपि । मधुनि प्रसृतैरिति भावः । पीतं पीतवर्ण पीतं चासीत् । अत्र पीतमिति श्लेषमूलातिशयोक्त्या पीतिम्नः क्रियाभेदाध्यवसायेनाचेतनांशुकर्तृकपानक्रियानिमित्ता प्रेयसीस्वहस्तदानाहितरसवत्तोत्प्रेक्षा । तथा च यदचेतनानामपि पेयं तच्चेतनानां किं वक्तव्यमित्यर्थापत्तिध्वननादलंकारेणालंकारध्वनिः
छन्दः आर्यागीतिः []
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
त्त मि ष्ट या धु
त्यु र्बा मा पि तो त्ताम्
त्सु र्ण मु कु टां शु
भि रा सा च्चे ना वि हि तै पि तिम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.