Loading data... On slow networks this could take a few minutes.
100%

संकथेच्छुरभिधातुमनीशा
संमुखी न च बभूव दिदृक्षुः ।
स्पर्शनेन दयितस्य नतभ्रू-
रङ्गचपलापि चकम्पे ॥

मल्लिनाथः संकथेति ॥ नतभ्रूः स्त्री संकथायां संभाषणे इच्छुरिच्छावत्यपि । `विन्दुरिच्छुः` (अष्टाध्यायी ३.२.१६९ ) इत्युप्रत्ययान्तो निपातः । अभिधातुं संभाषयितुमनीशा अक्षमा बभूव । अप्यर्थश्चशब्दः । दिदृक्षुर्द्रष्टुमिच्छुरपि । दृशेः सन्नन्तादुप्रत्ययः । संमुखी अभिमुखी न बभूव । अङ्गसङ्गचपला गात्रस्पर्शचपलापि दयितस्य स्पर्शनेन चकम्पे कम्पितवती । एते कम्पादयो लज्जासाध्वसानुभावाः । लज्जाविजितमन्मथेयं मुग्धा
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
सं थे च्छु भि धा तु नी शा
सं मु खी भू दि दृ क्षुः
स्प र्श ने यि स्य भ्रू
ङ्ग ला पि म्पे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.