Loading data... On slow networks this could take a few minutes.
100%

दत्तमात्तमदनं
दयितेन व्याप्तमतिशाकेन रसेन ।
सस्वदे मुखसुरं प्रम-
दाभ्यो नाम रूढमपि च व्युदपादि ॥

मल्लिनाथः दत्तमिति ॥ आत्तमदनमाहितमदनं यथा तथा दयितेन दत्तम् । अत एवातिशयिकेनातिशयप्रचुरेण । विनयादिभ्यष्टक् । रसेन स्वादेन व्याप्तम् । स्वादुतरमित्यर्थः । मुखस्य सुरा मुखसुरं गण्डूपमद्यम् । `विभाषा सेनासुराच्छायाशालानिशानाम्` (अष्टाध्यायी २.४.२५ ) इति नपुंसकत्वम् । प्रकृष्टो मदो यासां ताभ्यः प्रमदाभ्यः स्त्रीभ्यः । `रुच्यर्थानां प्रीयमाणः` (अष्टाध्यायी १.४.३३ ) इति संप्रदानसंज्ञा । सस्वदे रुरुचे । प्रीतिकरमभूदित्यर्थः । कर्तरि लिट् । अत एव तदेव तासां मदकरं चासीदित्याह । नामेति रूढं प्रागश्वकर्णादिवदव्युत्पन्नं नामापि प्रमदेति नामधेयं च व्युदपादि व्युत्पन्नं जातम् । यथा प्रकृष्टमदयोगात्प्रमदेत्यन्वर्थनामत्वं भवेत्तथा तास्तेनामाद्यन्नित्यर्थः । पद्यतेरण्यन्तात्कर्तरि लुङ् `चिण् ते पदः` (अष्टाध्यायी ३.१.६० ) इति चिण्प्रत्यये चिणो लुक् । `प्रमदाभिः` इति पाठे सस्वदे । स्वदयांचक्रे इत्यर्थः । `स्वादनमशनं भक्षणमाहारो भोजनं स्वदनम्` इति हलायुधे । स्वदिस्वाद्योरेकार्थत्वाभिधानात्कर्मणि लिट् । अत्र पूर्ववाक्यार्थस्योत्तरवाक्यार्थहेतुत्वात्काव्यलिङ्गम्
छन्दः आर्यागीतिः []
छन्दोविश्लेषणम्
१० ११ १२ १३
त्त मा त्त नं
यि ते व्या प्त ति शा के से
स्व दे मु सु रं प्र
दा भ्यो ना रू पि व्यु पा दि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.