Loading data... On slow networks this could take a few minutes.
100%

पानधौतनवयावकरागं
सुभ्रुवो निभृतचुम्बनदक्षाः ।
प्रेयसामधररागरसेन
स्वं किलाधरमुपालि ररञ्जुः ॥

मल्लिनाथः पानेति ॥ उपालि आल्याः समीपे । समीपार्थेऽव्ययीभावः । `आलिः सखी वयस्या च` इत्यमरः । अत एव निभृतचुम्बनदक्षाः गूढचुम्बनचतुराः सुभ्रुवः पानधौतनवयावकरागं मधुपानक्षालितलाक्षारागं स्वमधरं प्रेयसामधरेषु यो रागरसस्ताम्बूलरागद्रवस्तेन ररञ्जुः किल । अन्यगुणस्यान्यत्राधानमिह रञ्जेरर्थः । किलेत्यपरमार्थे । तेन पानधौतरागेषु स्वाधरेषु प्रेयोधररागसंक्रमणनाटितकेन सखीसमक्षमेव प्रियांश्चुम्बनं कारयामासुरित्यर्थः । अत्रागन्तुना रञ्जनेन सहजचुम्बननिगूहनान्मीलनालंकारभेदः । `मीलनं वस्तुना यत्र वस्त्वन्तरनिगूहनम्` इति लक्षणात्
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
पा धौ या रा गं
सु भ्रु वो नि भृ चु म्ब क्षाः
प्रे सा रा से
स्वं कि ला मु पा लि ञ्जुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.