संजहार सहसा परिरब्ध-
प्रेयसीषु विरहय्य विरोधम् ।
संहितं रतिपतिः स्मितभिन्न-
क्रोधमाशु तरुणेषु महेषुम् ॥

मल्लिनाथः &#३२; संजहारेति ॥ तरुणेषु युवसु विरोधं प्रणयकलहं विरहय्य विहाय । रहयतेः स्वार्थण्यन्तात् क्त्वा तस्य ल्यप् `ल्यपि लघुपूर्वात्` (अष्टाध्यायी ६.४.५६ ) इत्ययादेशः। सहसा परिरब्धाः प्रेयस्यो यैस्तेषु परिरब्धप्रेयसीषु आश्लिष्टवधूकेषु सत्सु । `ईयसश्च` (अष्टाध्यायी ५.४.१५६ ) इति कपोऽभावः । `ईयसो बहुव्रीहौ प्रतिषेधो वक्तव्यः` (वा०) इत्युपसर्जनस्य ह्रस्वनिषेधः । रतिपतिः कामः संहितं प्रागारोपितं महेषु महान्तं शरं स्मितभिन्नक्रोधं स्वयत्नसाफल्यात् स्मितेनोज्झितपूर्वरोषं च यथा तथा आशु संजहार । सिद्धेऽर्थे साधनानवकाशादित्यर्थः । परिरम्भान्तो यूनां विरह इति भावः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
सं हा सा रि ब्ध
प्रे सी षु वि य्य वि रो धम्
सं हि तं ति तिः स्मि भि न्न
क्रो मा शु रु णे षु हे षुम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.